श्री भगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।
श्रीमद् भगवद्गीता
।।8.3।। श्रीभगवान् ने कहा -- परम अक्षर (अविनाशी) तत्त्व ब्रह्म है; स्वभाव (अपना स्वरूप) अध्यात्म कहा जाता है; भूतों के भावों को उत्पन्न करने वाला विसर्ग (यज्ञ, प्रेरक बल) कर्म नाम से जाना जाता है।।
।।8.3।। -- अक्षरं न क्षरतीति अक्षरं परमात्मा एतस्य वा अक्षरस्य प्रशासने गार्गि (बृह0 उ0 3।8।9 इति श्रुतेः। ओंकारस्य च ओमित्येकाक्षरं ब्रह्म (गीता 8।13) इति परेण विशेषणात् अग्रहणम्। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम्। तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः स्वो भावः स्वभावः अध्यात्मम् उच्यते। आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते। भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः भूतवस्तूत्पत्तिकर इत्यर्थः। विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत्। एतस्मात् हि बीजभूतात् वृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति।।
।।8.3।। No commentary.
।।8.3।।अक्षरमिति। बृहत्त्वात् बृंहत्त्वात् बृंहकत्वाच्च परं ब्रह्म। अत एव अध्यात्मशब्दवाच्यं यतः स्वः अनिवृत्तिधर्मा (N निवृत्तिधर्मा K अनिवृत्तधर्मा) चैतान्याख्यो ( चैतन्यभावः) भावः। तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्यलक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात् बहिर्भावावभासनात्मा (N -- भासनात्सः) बहिर्भूतभावान्तरावभासनात्मा (S -- भावान्तरभासनात्मा यो विसर्गः) च यो विसर्गः क्रमेण भूतानां ब्रह्मादिप्रमातृ़णां भावानां जडानामुद्भवकारी जडाजडवैचित्र्यनिर्भासकः। तथा भूतभावस्य विगलितसकलवितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति [स कर्मसंज्ञितः]।