श्री भगवानुवाच
अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।
श्रीमद् भगवद्गीता
मूल श्लोकः
Sanskrit Commentary By Sri Ramanuja
।।16.1।।श्रीभगवानुवाच -- इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्? तन्निवृत्तिः अभयम्।
सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य रजस्तमोभ्याम् असंस्पृष्टत्वम्।
ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा।
दानं न्यायार्जितधनस्य पात्रे प्रतिपादनम्।
दमः मनसो विषयौन्मुखनिवृत्तिसंशीलनम्।
यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम्।
स्वाध्यायः सविभूतेः भगवतः तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेदः? इति अनुसंधाय वेदाभ्यासनिष्ठा।
तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेः भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम्।
आर्जवम् मनोवाक्कायकर्मवृत्तीनाम् एकनिष्ठा परेषु।