अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।4.4।।
श्रीमद् भगवद्गीता
।।4.4।। अर्जुन बोले - आपका जन्म तो अभीका है और सूर्यका जन्म बहुत पुराना है; अतः आपने ही सृष्टिके आदिमें सूर्यसे यह योग कहा था - यह बात मैं कैसे समझूँ?
।।4.4।। अर्जुन ने कहा -- आपका जन्म अपर अर्थात् पश्चात का है और विवस्वान् का जन्म (आपके) पूर्व का है, इसलिये यह मैं कैसे जानूँ कि (सृष्टि के) आदि में आपने (इस योग को) कहा था?
।।4.4।।या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां तामपनेतुमनुवदन्नर्जुन आशङ्कते अपरमल्पकालीनमिदानींतनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् परं बहुकालीनं सर्गादिभवं उत्कृष्टं च देवत्वात् विवस्वतो जन्म। अत्रात्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः। अतः कथमेतद्विजानीयामतिविरुद्धार्थतया। एतच्छब्दार्थमेव विवृणोति त्वमादौ प्रोक्तवानिति। त्वमिदानींतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः। अत्रायं निर्गलितोऽर्थः एतद्देहावच्छिन्नस्य तव देहान्तरावच्छेदेन वा आदित्यं प्रत्युपदेष्टृत्वं एतद्देहेन वा। नाद्यः। जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात्। अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः। तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात्। तदुक्तमभियुक्तैःजन्मान्तरानुभूतं च न स्मर्यते इति। नापि द्वितीयः। सर्गादाविदानींतनस्य देहस्यासद्भावात्। तदेवं देहान्तरेण सर्गादौ सद्भावसंभवेऽपीदानीं तत्स्मरणानुपपत्तिः। अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्यसर्वज्ञत्वानित्यत्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ।
।।4.4।। अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म। परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति।।या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः श्रीभगवानुवाच
।।4.4।। इस अध्याय के प्रारम्भिक श्लोक में घटनाओं के काल के विषयों में स्पष्ट विरोधाभास है। श्रीकृष्ण ने कहा कि उन्होंने सृष्टि के प्रारम्भ में इस योग को विवस्वान् को सिखाया। अर्जुन के लिये स्वाभाविक था कि वह श्रीकृष्ण को देवकी के पुत्र और गोकुल के मुरलीधर कृष्ण के रूप में ही जाने। श्रीकृष्ण की निश्चित जन्म तिथि थी और वे अर्जुन के ही समकालीन थे। इस दृष्टि से उनका सूर्य के प्रति उपदेश करना असंभव था क्योंकि सम्पूर्ण ग्रहों की सृष्टि के पूर्व सूर्य का अस्तित्व सिद्ध है।गीतोपदेष्टा भगवान् श्रीकृष्ण को कोई मनुष्य न समझ ले इसलिये व्यासजी भगवान् के ही मुख से घोषणा करवाते हैं कि
।।4.4।।भगवान्ने असङ्गत कहा ऐसी धारणा किसीकी न हो जाय अतः उसको दूर करनेके लिये शङ्का करता हुआसा अर्जुन बोला आपका जन्म तो अर्वाचीन है अर्थात् अभी वसुदेवके घरमें हुआ है और सूर्यकी उत्पत्ति पहले सृष्टिके आदिमें हुई थी। तब मैं इस बातको अविरुद्धार्थयुक्त ( सुसङ्गत ) कैसे समझूँ कि जिन आपने इस योगको आदिकालमें कहा था वही आप मुझसे कह रहे हैं।
।।4.4।।मयि सर्वाणि 3।30 इत्युक्तम्। तन्माहात्म्यमादितो ज्ञातुं पृच्छति अपरमिति।
।।4.4।।अर्जुन उवाच कालसंख्यया अपरम् अस्मज्जन्मसमकालमं हि भवतो जन्म विवस्वतः च कालसंख्यया परम् अष्टाविंशतिचतुर्युगसंख्यातम् त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयं विशेषण यथार्थं जानीयाम्।
ननु जन्मान्तरेण अपि वक्तुं शक्यम् जन्मान्तरकृतस्य महतां स्मृतिः च युज्यते। इति अत्र न कश्चिद् विरोधः। न च असौ वक्तारम् एनं वसुदेवतनयं सर्वेश्वरं न जानाति यत एवं वक्ष्यति परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।। (10।1213) इति। युधिष्ठिरराजसूयादिषु भीष्मादिभ्यः च असकृत् श्रुतम् कृष्ण एव हि लोकानामुत्पत्तिप्रभवाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम्।। (महा0 सभा0 38।23) इत्येवमादिषु कृष्णस्य हि कृते इति कृष्णस्य शेषभूतम् इदं कृत्स्नं जगद् इत्यर्थः।अत्र उच्यते जानाति एव अयं भगवन्तं वसुदेवतनयं पार्थः। जानतः अपि अजानतः इव पृच्छतः अयम् आशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसंकल्पस्य च अवाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किम् इन्द्रजालादिवत् मिथ्या किं वा सत्यम् सत्यत्वे च कथं जन्मप्रकारः किमात्मकः अयं देहः कश्च जन्महेतुः कदा च जन्म किमर्थं वा जन्म इति परिहारप्रकारेण प्रश्नार्थो विज्ञायते।