योगसूत्र

सूत्र

तस्य हेतुरविद्या।।2.24।।

भाष्य

।।2.24।। विपर्यज्ञानवासनेत्यर्थः। विपर्यज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनरावर्तते। सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते।

अत्र कश्चित्षण्डकोपाख्यानेनोद्घाटयति मुग्धया भार्ययाऽभिधीयते षण्डकाऽऽर्यपुत्र अपत्यवती मे भगिनी किमर्थं नाहमिति स तामाह मृतस्तेऽहमपत्यमुत्पादयिष्यामीति। तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति विनष्टं करिष्यतीति का प्रत्याशा। तत्राऽऽचार्यदेशीयो वक्ति ननु बुद्धिनिवृत्तिरेव मोक्षोऽदर्शनकरणाभावाद्बुद्धिनिवृत्तिः। तच्चादशनं बन्धकारणं दर्शनान्निवर्तते। तत्र चित्तनिवृत्तिरेव मोक्षः किमर्थमस्थान एवास्य मतिविभ्रमः।

हेयं दुःखमुक्तम् हेय कारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं हानं वक्तव्यम्