योगसूत्र

सूत्र

।।तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्।।2.25।।

भाष्य

।।2.25।। तस्यादर्शनस्याभावादबुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः। एतद्धानम्। तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः। दुःखकारणनिवृत्तौ दुःखोपरमो हानम्। तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्।

अथ हानस्य कः प्राप्त्युपाय इति