योगसूत्र

सूत्र

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः।।2.51।।

भाष्य

।।2.51।। देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः। तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्मः। तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः। तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति।

भोजवृत्ति

।।2.51।। प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः। आभ्यन्तरो विषयो हृदयनाभिचक्रादिः। तौ द्वौ विषयावाक्षिप्य पर्यालोच्य सः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः। तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः स बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्तम्भवृत्त्या निष्पद्यते। अस्य तु विषय द्वयाक्षेपक निरोधः। अयमपि पूर्ववद्देशकालसंख्याभिरूपलक्षितो द्रष्टव्यः।

चतुर्विधस्यास्य फलमाह