‹‹ ‹ › ››
सूत्र
देशबन्धश्चित्तस्य धारणा।।3.1।।
भाष्य
।।3.1।। नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा।
भोजवृत्ति
।।3.1।। तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाविधानपूर्वकं बाह्याभ्यन्तरादि सिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते। तत्र धारणायाः स्वरूपमाह