योगसूत्र

सूत्र

धारणासु च योग्यता मनसः।।2.53।।

भाष्य

।।2.53।। प्राणायामाभ्यासादेव। प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। 1।34 इति वचनात्।

अथ कः प्रत्याहारः

भोजवृत्ति

।।2.53।। धारणा वक्ष्यमाणलक्षणस्तासु प्राणायामैः क्षीणदोष मनो यत्र यत्र धार्यते तत्र स्थिरी भवति न विक्षेपं भजते।

प्रत्याहारस्य लक्षणमाह