योगसूत्र

सूत्र

हानमेषां क्लेशवदुक्तम्।।4.28।।

भाष्य

।।4.28।। यथा क्लेशा दग्धबीजभावा न प्ररोह समर्था भवन्ति यथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति। ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते।

भोजवृत्ति

।।4.28।। यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं तथा संस्काराणामपि कर्तव्यम्। यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्काराऽपि।

एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधौ यादृशाऽस्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह