ब्रह्मसूत्र

साक्षादप्यविरोधं जैमिनिः।।1.2.28।।

।।1.2.28।।

पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेन। इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते। ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति अत्रोच्यते अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते। न हीह पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति जाठराग्न्यभिप्रायेणेदमुच्यते तस्याप्रकृतत्वादसंशब्दितत्वाच्च कथं तर्हि यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् तदभिप्रायेणेदमुच्यते पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति तद्वत्। अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषविधत्वोपाधिः तस्य यत्केवलं साक्षिरूपम् तदभिप्रायेणेदमुच्यते पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद इति। निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते विश्वश्चायं नरश्चेति विश्वेषां वायं नरः विश्वे वा नरा अस्येति विश्वानरः परमात्मा सर्वात्मत्वात् विश्वानर एव वैश्वानरः तद्धितोऽनन्यार्थः राक्षसवायसादिवत्। अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति। गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते।।

कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते