ब्रह्मसूत्र

Introduction for Chapter 2, Quarter 1


।।ब्रह्मसूत्रभाष्यम्।।

।।द्वितीयोऽध्यायः।।
।।प्रथमः पादः।।

प्रथमेऽध्याये सर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम् मृत्सुवर्णादय इव घटरुचकादीनाम् उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम् मायावीव मायायाः प्रसारितस्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम् अवनिरिव चतुर्विधस्य भूतग्रामस्य स एव च सर्वेषां न आत्मा इत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम् प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः। इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृष्ट्यादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति