ब्रह्मसूत्र

Introduction for Chapter 4, Quarter 1


।।ब्रह्मसूत्रभाष्यम्।।

।।चतुर्थोऽध्यायः।।
।।प्रथमः पादः।।

तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगान् अथेह चतुर्थे फलाश्रय आगमिष्यति प्रसङ्गागतं च अन्यदपि किंचिच्चिन्तयिष्यते प्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः