ब्रह्मसूत्र

।। प्रथमोऽध्यायः ।।
।। तृतीयः पादः ।।

द्युभ्वाद्यायतनं स्वशब्दात् ।। 1.3.1 ।।

द्युभ्वाद्यधिकरणम्।।1.3.1।।

इदं श्रूयते यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः इति। अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किंचिदवगम्यते तत्किं परं ब्रह्म स्यात् आहोस्विदर्थान्तरमिति संदिह्यते। तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम्। कस्मात् अमृतस्यैष सेतुः इति श्रवणात्। पारवान्हि लोके सेतुः प्रख्यातः। न च परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम् अनन्तमपारम् इति श्रवणात्। अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम् तस्य कारणत्वादायतनत्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात् वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति इति वायोरपि विधारणत्वश्रवणात्। शारीरो वा स्यात् तस्यापि भोक्तृत्वात् भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते

इदमाह द्युभ्वाद्यायतनमिति। द्यौश्च भूश्च द्युभुवौ द्युभुवौ आदी यस्य तदिदं द्युभ्वादि। यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् तस्यायतनं परं ब्रह्म भवितुमर्हति। कुतः स्वशब्दात् आत्मशब्दादित्यर्थः। आत्मशब्दो हीह भवति तमेवैकं जानथ आत्मानम् इति। आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते नार्थान्तरपरिग्रहे। क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्व श्रूयते सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः इति। स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म संकीर्त्यते पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् इति ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण इति च। तत्र त्वायतनायतनवद्भावश्रवणात्। सर्वं ब्रह्मेति च सामानाधिकरण्यात् यथा ह्यनेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति एवं नानारसो विचित्र आत्मेत्याशङ्का संभवति तां निवर्तयितुं सावधारणमाह तमेवैकं जानथ आत्मानम् इति। एतदुक्तं भवति न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः किं तर्हि अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमिति। यथा यस्मिन्नास्ते देवदत्तस्तदानय इत्युक्ते आसनमेवानयति न देवदत्तम् तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते। विकारानृताभिसंधस्य चापवादः श्रूयते मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति। सर्वं ब्रह्म इति तु सामानाधिकरण्यं प्रपञ्चविलापनार्थम् न अनेकरसताप्रतिपादनार्थम् स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इत्येकरसताश्रवणात्। तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म। यत्तूक्तम् सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेः ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति अत्रोच्यते विधारणत्वमात्रमेव सेतुश्रुत्या विवक्ष्यते न पारवत्त्वादि। न हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते। सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव न पारवत्त्वादि षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः। अपर आह तमेवैकं जानथ आत्मानम् इति यदेतत्संकीर्तितमात्मज्ञानम् यच्चैतत् अन्या वाचो विमुञ्चथ इति वाग्विमोचनम् तत् अत्र अमृतत्वसाधनत्वात् अमृतस्यैष सेतुः इति सेतुश्रुत्या संकीर्त्यते न तु द्युभ्वाद्यायतनम्। तत्र यदुक्तम् सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति एतदयुक्तम्।।