ब्रह्मसूत्र

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः।।1.4.20।।

।।1.4.20।।

अस्त्यत्र प्रतिज्ञा आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति इदं सर्वं यदयमात्मा इति च। तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यात्वादिसंकीर्तनम्। यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञायत इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम् तद्धीयेत। तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते।।