श्रीमद् भगवद्गीता

मूल श्लोकः

सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।18.64।।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।18.64।।अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचनंविना क्लेशनिवृत्तेरभावात्तथाविधक्लेशनिवृत्तये कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति -- सर्वगुह्यतममिति। पूर्वं हि गुह्यात्कर्मयोगात् गुह्यतरं ज्ञानमाख्यातम्? अधुना तु कर्मयोगात्तत्फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमं सर्वतः प्रकृष्टं मे मम वचो वाक्यं भूयस्तत्रतत्रोक्तमपि त्वदनुग्रहार्थं पुनर्वक्ष्यमाणं शृणु। न लाभपूजाख्यात्याद्यर्थं त्वां ब्रवीमि तु इष्टः प्रियोसि मे मम दृढमतिशयेन इति यतस्ततस्तेनैवेष्टत्वेन वक्ष्यामि कथयिष्याम्यपृष्टोऽपि सन्नहं ते तव हितं परमं श्रेयः।

Sanskrit Commentary By Sri Sridhara Swami

।।18.64।।अतिगम्भीरं गीताशास्त्रमशेषतः पर्यालोचयितुमशक्नुवतः कृपया स्वयमेव तस्य सारं संगृह्य कथयति -- सर्वगुह्यतममितित्रिभिः। सर्वेभ्योऽपि गुह्येभ्यो गुह्यतमं मे वचः तत्रतत्रोक्तमपि भूयः पुनः पुनरपि वक्ष्यमाणं श्रृणु। पुनः पुनः कथने हेतुमाह -- दृढमत्यन्तं मे मम त्वमिष्टः प्रियोऽसीति मत्वा। तत एव हेतोस्ते हितं वक्ष्यामि। यद्वा त्वं ममेष्टोऽसि मया वक्ष्यमाणं च दृढं सर्वप्रमाणोपेतमिति निश्चित्य ततस्ते वक्ष्यामीत्यर्थः। दृढमतिरिति केचित्पठन्ति।

Hindi Translation By Swami Ramsukhdas

।।18.64।।सबसे अत्यन्त गोपनीय वचन तू फिर मेरेसे सुन। तू मेरा अत्यन्त प्रिय है, इसलिये मैं तेरे हितकी बात कहूँगा।

Sanskrit Commentary By Sri Neelkanth

।।18.64।।एवं यथेष्टकरणमभ्यनुज्ञायापि अतिवात्सल्याच्छ्लोकद्वयेनैव कृत्स्नं शास्त्रार्थमुपदेक्ष्यंस्तद्ग्रहणे ऐकाग्र्यमस्य संपादयितुमाह -- सर्वेति। सर्वेभ्यो गुह्येभ्यः अतिशयितं गुह्यं सर्वगुह्यतमं भूयः पुनरसकृदुक्तमपि मे मम वचनं शृणु। परमं परमार्थविषयत्वात्। न लोभान्नापि भयात्त्वां वक्ष्यामि। किं तर्हि मे मम इष्टोऽसि,परमाप्तोऽसि इति हेतोः द़ृढं अतिशयितं ते तव हितं यतस्ततो वक्ष्यामि। तव इष्टत्वात् विद्यायाश्च हितत्वात् तद्वचनं आप्ते त्वयि अवश्यं वक्तव्यमिति भावः।

English Translation of Abhinavgupta's Sanskrit Commentary By Dr. S. Sankaranarayan

18.64 See Comment under 18.65

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.64 Srnu, listen; bhuyah, again; to me, My; paramam, highest; vacah, utternace; which is sarva-guhyatamam, profundest of all, most secret of all secrets, though it has been repeatedly stated. Neither from fear nor even for the sake of money am I speaking! What then? Iti, since, considering that; asi, you are; drdham, ever, unwaveringly; istah, dear; me, to Me; tatah, therefore, for that reason; vaksyami, I shall speak; what is hitam, beneficial; te, to you, what is the highest means of attaining Knowledge. That is indeed the most beneficial of all beneficial things. 'What is that (You are going to tell me)?' In answer the Lord says:

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.64 It has been said that Bhakti Yoga is the most secret of all secrets, in such texts as 'I will declare to you, who does not cavil, this most mysterious knowledge' (9.1). Hear again My supreme word concerning it (i.e., Bhakti Yoga). As you are exceedingly dear to Me, therefore, I shall declare what is good for you.