यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।।
श्रीमद् भगवद्गीता
मूल श्लोकः
Sanskrit Commentary By Sri Ramanuja
।।15.18।।यस्माद् एवम उक्तैः स्वभावैः क्षरं पुरुषम् अतीतः अहम्? अक्षरात् मुक्ताद् अपि उक्तैः हेतुभिः उत्कृष्टतमः? अतः अहं लोके वेदे च पुरुषोत्तमः इति प्रथितः अस्मि। वेदार्थावलोकनात् लोक इति स्मृतिः इह उच्यते। श्रुतौ स्मृतौ च इत्यर्थः।
श्रुतौ तावत् -- परं ज्योतिरूपं संपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः (छ0 उ0 8।12।3) इत्यादौ। स्मृतौ अपिअंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः। (वि0 पु 5।17।33) इत्यादौ।