एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।16.22।।
श्रीमद् भगवद्गीता
16.22 एतैः from these, विमुक्तः liberated, कौन्तेय O Kaunteya, तमोद्वारैः gates to darkness, त्रिभिः (by) three, नरः the man, आचरति practises, आत्मनः for him, श्रेयः what is good, ततः and then, याति goes to, पराम् the Supreme, गतिम् Goal.
Commentary:
When these gates to hell are abandoned, the path to salvation is made clear for the aspirant. He gets the company of sages, which leads to liberation. He gets spiritual instructions and practises them. He hears the scriptures, reflects, meditates and attains Selfrealisation.Tamodvara Gate to darkness leading to hell which is full of pain and delusion.
।।16.22।। --,एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः? एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठति। किम् आत्मनः श्रेयः। यत्प्रतिबद्धः पूर्वं न आचचार? तदपगमात् आचरति। ततः तदाचरणात् याति परां गतिं मोक्षमपि इति।।सर्वस्य एतस्य आसुरीसंपत्परिवर्जनस्य श्रेयआचरणस्य च शास्त्रं कारणम्। शास्त्रप्रमाणात् उभयं शक्यं कर्तुम्? न अन्यथा। अतः --,