योगसूत्र

सूत्र


अथ योगानुशासनम्।।1.1।।

भाष्य


।।1.1।। अथेत्ययमधिकारार्थः। योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः। स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते।

यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स संप्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात्प्रवेदयिष्यामः। सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः।

तस्य लक्षणाभिधित्सयेदं सूत्रं प्रवर्तते

भोजवृत्ति


।।1.1।। अनेन सूत्रेण शास्त्रस्य सम्बन्धभिधेयप्रयोजनान्याख्यायन्ते। अथ शब्दोऽधिकारद्योतको मङ्गलार्थकश्च। योगो युक्तिः समाधनम्। युज् समाधौ अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम्। योगस्यानुशासनं योगानुशासनम्। तदा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः। तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः। तदव्युत्पादनञ्च फलम्। व्युत्पादितस्य योगस्य कैवल्यं फलम्। शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः। अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः। एतदुक्तं भवति व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते तत्साधनसिद्दो योगः कैवल्याख्यं फलमुत्पादयति।

तत्र को योगः इत्याह