योगसूत्र

सूत्र


तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः।।2.1।।

भाष्य


।।2.1।। नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः संभेदमापद्यत इति तपस उपादानम्। तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते।

स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा।

स हि क्रियायोगः

भोजवृत्ति


।।2.1।। तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्यम् उपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह।

तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि। स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः। ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षतया समर्पणम्। एतानि क्रियायोग इत्युच्यते।

स किमर्थ इत्यत आह