योगसूत्र

सूत्र


जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः।।4.1।।

भाष्य


।।4.1।। देहान्तरिता जन्मना सिद्धिः। ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादिः। मन्त्रैराकाशगमनाणिमादिलाभः। तपसा संकल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि। समाधिजाः सिद्धयो व्याख्याताः।

तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम्

भोजवृत्ति


।।4.1।। इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽयमारभ्यते।

तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादि कारणप्रतिपादनद्वारेणैवं बोधयति। मदि या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाज्जन्मादिनिमित्तमात्रत्वेनाऽश्रित्य प्रवर्तन्ते। ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थं कैवल्यप्रयोगार्थं चाऽऽह