योगसूत्र

सूत्र

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः।।1.5।।

भाष्य

।।1.5।। क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्तते। तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः।

भोजवृत्ति

।।1.5।। वृत्तयश्चित्तपरिणामविशेषाः वृत्तिसमुदायलक्षणस्यावयविनो या अवयवभूता वृत्तयस्तदपेक्षया तदप्यप्रत्ययः। एतदुक्तं भवति पञ्च वृत्तयः कीदृश्यः क्लिष्टा अक्लिष्टा क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः। तद्विपरीता अक्लिष्टाः।

एता एव पञ्च वृत्तयः संक्षिप्योद्दिश्यन्ते