योगसूत्र

सूत्र

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी।।1.50।।

भाष्य

।।1.50।। समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिरुपतिष्ठते। ततः समाधिजा प्रज्ञा ततःप्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश्च प्रज्ञा ततश्च संस्कारा इति। कथमसौ संस्काराशयश्चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकायादवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितमिति।

किं चास्य भवति

भोजवृत्ति

।।1.50।। तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति स्वकार्यकरणाक्षमान्करोतीत्यर्थः। यतस्तत्त्वरूपतयाऽऽनया जनिताः संस्कारा बलबत्त्वादतत्त्वरूपप्रज्ञाजनितान्संस्कारान्बाधितुं शक्नुवन्ति। अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति।

एवं संप्रज्ञातं समाधिमभिधायासंप्रज्ञातं वक्तुमाह