योगसूत्र

सूत्र

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।।1.8।।

भाष्य

।।1.8।। स कस्मान्न प्रमाणम्। यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात्मप्रमाणस्य। तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम्। तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति।

सेयं पञ्चपर्वा भवत्यविद्या अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते।

भोजवृत्ति

।।1.8।। अतथाभूतेऽर्थे तथोत्पद्यानं ज्ञानं विपर्ययः। यथा शुक्तिकायां रजतज्ञानम्। अतद्रूपप्रतिष्ठमिति। तस्यार्थस्य यद्रूयं तस्मिन्रूपे न प्रतितिष्ठति तस्यार्थस्य यत्पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत्। संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम्। यथा स्थाणुर्वा पुरुषो वेति।

विकल्पवृत्तिं व्याख्यातुमाह