योगसूत्र

सूत्र

समाधिभावनार्थः क्लेशतनूकरणार्थश्च।।2.2।।

भाष्य

।।2.2।। स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति। प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधमिणः करिष्यतीति। तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति।

अथ के क्लेशाः कियन्तो वेति

भोजवृत्ति

।।2.2।। क्लेशा वक्ष्यमाणस्तेषां तनूकरणं स्वकार्यकारणप्रतिबन्धः। समाधिरुक्तलक्षणस्तस्य भावना चेतसि पुनः पुनर्निवेशनं सोऽर्थः प्रयोजन यस्य स तथोक्तः। एतदुक्तं भवति एते तपः प्रभृतयोऽभ्यस्यमानाश्चित्तगतानविच्चादीन्क्लेशाञ्छिथिली कुर्वन्तः समाधेरुपकारकतां भजन्ते। तस्मात्प्रथमतः क्रियायोगवधानपरेण योगिना भवितव्यमित्युपदिष्टम्।

क्लेशतनूकरणार्थ इत्युक्तं तत्र के क्लेशा इत्यत आह