योगसूत्र

सूत्र

अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः।।2.3।।

भाष्य

।।2.3।। क्लेशा इति पञ्च विपर्यया इत्यर्थः। ते स्यन्दमाना गुणाधिकारदृढयन्ति परिणाममवस्थापयन्ति कार्यकारणस्रोत उन्नमयन्ति परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति।

भोजवृत्ति

।।2.3।। अविद्यादयो वक्ष्यमाणलक्षणाः पञ्च। ते च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति। ते हि चेतसि प्रवर्तमानाः संत्कारलक्षणं गुणपरिणामं दृढ़यन्ति।

सत्यपि सर्वेषां तुल्ये क्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह