योगसूत्र

सूत्र

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्।।3.54।।

भाष्य

।।3.54।। तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किंचिदविषयीभूतमित्यर्थः। सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः। अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः। एतद्विवेकजं ज्ञानं परिपूर्णम्। अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति।

प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा

भोजवृत्ति

।।3.54।। उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञाय तारकमित्युच्यते। अस्य विषयमाह सर्वविषयमिति। सर्वाणि तत्त्वानि महदादीनि विषयो यस्येति सर्वविषयम्। स्वभावश्चास्य सर्वथाविषयत्वम्। सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तेस्तैः परिणामैः सर्वेण प्रकारेणावस्थितानि तत्त्वानि विषयो यस्येति सर्वथाविषयम्। स्वभावान्तरमाह अक्रमं चेति। निःशेषनानावस्थापरिणतद्वित्र्यात्मकभावग्रहणे नास्य क्रमो विद्यत इति अक्रमम्। सर्वं करतलामलकवद्युगपत्पश्यतीत्यर्थः।

अस्माच्च विवेकजात्तारकाख्याज्ज्ञानात्किं भवतीत्याह