‹‹ ‹ › ››
सूत्र
जात्यन्तरपरिणामः प्रकृत्यापूरात्।।4.2।।
भाष्य
।।4.2।। पूर्वपरिणामापाय उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति। कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारमनुगृह्णन्त्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति।
भोजवृत्ति
।।4.2।। योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः सप्रकृत्यापूरात् पाश्चात्त्या एव हि प्रकृतयोऽमुष्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणामयन्ति।