योगसूत्र

सूत्र

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः।।4.33।।

भाष्य

।।4.33।। क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न ह्यननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति। नित्येषु च क्रमो दृष्टः।

द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम्। उभयस्य च तत्त्वानभिघातान्नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति।

अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति। अवचनीयमेतत्। कथम्। अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यति मृत्वा जनिष्यत इति। ओ3म् भो इति।

अथ सर्वो जातो मरिष्यतीति मृत्वा जनिष्यत इति। विभज्यवचनीयमेतत्। प्रत्युदितख्यातिः क्षीणतृष्णाः कुशलो न जनिष्यत इतरस्तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति। अयं त्वचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त इति। कुशलस्याति संसारक्रमपरिसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः। तस्माद्व्याकरणीय एवायं प्रश्न इति।

गुणाधिकारक्रमसमाप्ता कवल्यमुक्त। तत्स्वरूपमवधार्यते

भोजवृत्ति

।।4.33।। क्षणोऽल्पीयान्कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात्संकलनबुद्ध्यै व यो गृह्यते स क्षणानां क्रम उच्यते न ह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्य।

इदानीं फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमाह