योगसूत्र

सूत्र

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्।।4.32।।

भाष्य

।।4.32।। तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते। न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते।

अथ कोऽयं क्रमो नामेति

भोजवृत्ति

।।4.32।। कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्ता गुणाः सत्त्वरजस्तमांसि तेषां परिणाम आ पुरुषार्थसमाप्तेरानुलेम्येन प्रातिलोम्येन चाङ्गाङ्गिभाव स्थितिलक्षणस्तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिर्निष्ठा न पुनरुद्भव इत्यर्थः।

क्रमस्योक्तस्य लक्षणमाह