योगसूत्र

सूत्र

निर्माणचित्तान्यस्मितामात्रात्।।4.4।।

भाष्य

।।4.4।। अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति ततः सचित्तानि भवन्ति।

भोजवृत्ति

।।4.4।। योगिनः स्वयं निर्मितेषु कायेषु तानि चित्तानि तानि मूलकारणदस्मितामात्रादेव तदिच्छया प्रसरन्ति अग्नेर्विस्फुलिङ्गा इव युगपत्परिणमन्ति।

ननु बहुनां चित्तानां भिन्नाभिप्रायत्वान्नैककार्यकर्तृत्वं स्यादित्यत आह