योगसूत्र

सूत्र

तत्र ध्यानजमनाशयम्।।4.6।।

भाष्य

।।4.6।। पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपः समाधिजाः सिद्धय इति। तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिन इति। इतरेषां तु विद्यते कर्माशयः।

यतः

भोजवृत्ति

।।4.6।। ध्यानजं समाधिजं यच्चितं तत्पञ्चसु मध्येऽनाशयं कर्मवासनारहितमित्यर्थः।

यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह