ब्रह्मसूत्र

गतिसामान्यात्।।1.1.10।।

।।1.1.10।।

यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगगतिरभविष्यत् क्वचिच्चेतनं ब्रह्म जगतः कारणम् क्वचिदचेतनं प्रधानम् क्वचिदन्यदेवेति ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत्। न त्वेतदस्ति। समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः। यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः इति तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति आत्मन एवेदं सर्वम् इति आत्मन एष प्राणो जायते इति च आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः। आत्मशब्दश्च चेतनवचन इत्यवोचाम। महच्च प्रामाण्यकारणमेतत् यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम् चक्षुरादीनामिव रूपादिषु। अतो गतिसमान्यात्सर्वज्ञं ब्रह्म जगतः कारणम्।।

कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्