ब्रह्मसूत्र

Introduction for Chapter 4, Quarter 4


।।ब्रह्मसूत्रभाष्यम्।।

।।चतुर्थोऽध्यायः।।
।।चतुर्थः पादः।।

एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रूयते। तत्र संशयः किं देवलोकाद्युपभोगस्थानेष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते आहोस्वित् आत्ममात्रेणेति। किं तावत्प्राप्तम् स्थानान्तरेष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात् मोक्षस्यापि फलत्वप्रसिद्धेः अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् स्वरूपमात्रेण चेदभिनिष्पत्तिः पूर्वावस्थासु स्वरूपानपायात् विभाव्येत तस्मात् विशेषेण केनचिदभिनिष्पद्यत इति। एवं प्राप्ते ब्रूमः