ब्रह्मसूत्र

।। प्रथमोऽध्यायः ।।
।। द्वितीयः पादः ।।

सर्वत्र प्रसिद्धोपदेशात् ।। 1.2.1 ।।

सर्वत्रप्रसिद्ध्यधिकरणम्।।1.2.1।।

इदमाम्नायते सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्िम्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीरः इत्यादि। तत्र संशयः किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्वित्परं ब्रह्मेति। किं तावत्प्राप्तम् शारीर इति। कुतः तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धः न परस्य ब्रह्मणः अप्राणो ह्यमनाः शुभ्रः इत्यादिश्रुतिभ्यः। ननु सर्वं खल्विदं ब्रह्म इति स्वशब्देनैव ब्रह्मोपात्तम् कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते नैष दोषः नेदं वाक्यं ब्रह्मोपासनविधिपरम् किं तर्हि शमविधिपरम् यत्कारणम् सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इत्याह। एतदुक्तं भवति यस्मात्सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वाच्च न च सर्वस्यैकात्मत्वे रागादयः संभवन्ति तस्मात् शान्त उपासीतेति। न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते। उपासनं तु स क्रतुं कुर्वीत इत्यनेन विधीयते। क्रतुः संकल्पो ध्यानमित्यर्थः। तस्य च विषयत्वेन श्रूयते मनोमयः प्राणशरीरः इति जीवलिङ्गम्। अतो ब्रूमः जीवविषयमेतदुपासनमिति। सर्वकर्मा सर्वकामः इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते। एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नापरिच्छिन्नस्य ब्रह्मणः। ननु ज्यायान्पृथिव्याः इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति। अत्र ब्रूमः न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् विरोधात् अन्यतराश्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम् ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनम् एतद्ब्रह्म इति तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते

ब्रूमः परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् इह च सर्वं खल्विदं ब्रह्म इति वाक्योपक्रमे श्रुतम् तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः। ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम् अत्रोच्यते यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म संनिहितं भवति जीवस्तु न संनिहितः न च स्वशब्देनोपात्त इति वैषम्यम्।।