विवक्षितगुणोपपत्तेश्च।।1.2.2।।
।।1.2.2।।
वक्तुमिष्टा विवक्षिताः। यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः संभवति तथाप्युपादानेन फलेनोपचर्यते। लोकेऽपि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते यदनुपादेयं तदविवक्षितमिति। तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति इतरदविवक्षितम्। उपादानानुपादाने तु
वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृतयः ते परस्मिन्ब्रह्मण्युपपद्यन्ते। सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते। परमात्मगुणत्वेन च य आत्मापहतपाप्मा इत्यत्र सत्यकामः सत्यसंकल्पः इति श्रुतम् आकाशात्मा इति च। आकाशवदात्मा अस्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः संभवत्याकाशेन साम्यं ब्रह्मणः। ज्यायान्पृथिव्याः इत्यादिना चैतदेव दर्शयति। यदपि आकाश आत्मा अस्येति व्याख्यायते तदपि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्। अत एव सर्वकर्मा इत्यादि। एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते। यत्तूक्तम् मनोमयः प्राणशरीरः इति जीवलिङ्गम् न तद्ब्रह्मण्युपपद्यत इति तदपि ब्रह्मण्युपपद्यत इति ब्रूमः। सर्वात्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसंबन्धीनि भवन्ति। तथा च ब्रह्मविषये श्रुतिस्मृती भवतः त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः इति सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति इति च। अप्राणो ह्यमनाः शुभ्रः इति श्रुतिः शुद्धब्रह्मविषया इयं तु श्रुतिः मनोमयः प्राणशरीरः इति सगुणब्रह्मविषयेति विशेषः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते।।