ब्रह्मसूत्र

सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति।।1.2.31।।

।।1.2.31।।

संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः। कुतः तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमेश्वरस्य दर्शयति प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा तु व एवान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति। स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति। नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति। मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर
इति। चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरः इति। चुबुकमित्यधरं मुखफलकमुच्यते। यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते आदित्यश्च सुतेजस्त्वगुणः छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा
समाम्नायते आदित्यश्च विश्वरूपत्वगुणः तथापि नैतावता विशेषेण किंचिद्धीयते प्रादेशमात्रश्रुतेरविशेषात् सर्वशाखाप्रत्ययत्वाच्च। संपत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते।।