ब्रह्मसूत्र

आमनन्ति चैनमस्मिन्।।1.2.32।।

।।1.2.32।।

आत्मनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति। सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति। वरणायां नास्यां च मध्ये प्रतिष्ठित इति। का वै वरणा का च नासीति। तत्र चेमामेव नासिकाम् सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी इति वरणानासीति निरुच्य पुनरप्यामनन्ति कतमच्चास्य स्थानं भवतीति। भ्रुवोर्घ्राणस्य च यः संधिः स एष द्युलोकस्य परस्य च संधिर्भवति इति। तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः। अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया। प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः अभिगतो वायं प्रत्यगात्मत्वात् विमानश्च मानवियोगात् इत्यभिविमानः। अभिविमिमीते वा सर्वं जगत् कारणत्वादित्यभिविमानः तस्मात्परमेश्वरो वैश्वानर इति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः।।