ब्रह्मसूत्र

स्मृतेश्च।।1.2.6।।

।।1.2.6।।

स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया इत्याद्या। अत्राह कः पुनरयं शारीरो नाम परमात्मनोऽन्यः यः प्रतिषिध्यते अनुपपत्तेस्तु न शारीरः इत्यादिना श्रुतिस्तु नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता
इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति। तथा स्मृतिरपि क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत इत्येवंजातीयकेति।।

अत्रोच्यते सत्यमेवैतत् पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते तद्वत्। तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् तत्त्वमसि इत्यात्मैकत्वोपदेशग्रहणात्। गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात्।।