ब्रह्मसूत्र

पत्यादिशब्देभ्यः।।1.3.43।।

।।1.3.43।।

इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः इत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाः। तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः।।