ब्रह्मसूत्र

सुषुप्त्युत्क्रान्त्योर्भेदेन।।1.3.42।।

सुषुप्त्यधिकरणम्।।1.3.42।।

व्यपदेशादित्यनुवर्तते। बृहदारण्यके षष्ठे प्रपाठके कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः। तत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यम् उतासंसारिस्वरूपप्रतिपादनपरमिति विशयः। किं तावत्प्राप्तम् संसारिस्वरूपमात्रविषयमेवेति कुतः उपक्रमोपसंहाराभ्याम् उपक्रमे योऽयं विज्ञानमयः प्राणेषु इति शारीरलिङ्गात् उपसंहारे च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु इति तदपरित्यागात् मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते

ब्रूमः परमेश्वरोपदेशपरमेवेदं वाक्यम् न शारीरमात्रान्वाख्यानपरम् कस्मात् सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्। सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इति शारीराद्भेदेन परमेश्वरं व्यपदिशति तत्र पुरुषः शारीरः स्यात् तस्य वेदितृत्वात्
बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात् प्राज्ञः परमेश्वरः सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्। तथोत्क्रान्तावपि अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति इति जीवाद्भेदेन परमेश्वरं व्यपदिशति तत्रापि शारीरो जीवः स्यात् शरीरस्वामित्वात् प्राज्ञस्तु स एव परमेश्वरः। तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते। यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति अत्र ब्रूमः उपक्रमे तावत् योऽयं विज्ञानमयः प्राणेषु इति न संसारिस्वरूपं विवक्षितम् किं तर्हि अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति यतः ध्यायतीव लेलायतीव इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु इति योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते स प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति किं तर्हि अवस्थारहितत्वमसंसारित्वं च कथमेतदवगम्यते यत् अत ऊर्ध्वं विमोक्षायैव ब्रूहि इति पदे पदे पृच्छति यच्च अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः इति पदे पदे प्रतिवक्ति अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति इति च। तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्।।