ब्रह्मसूत्र

सूक्ष्मं तु तदर्हत्वात्।।1.4.2।।

।।1.4.2।।

उक्तमेतत् प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् न प्रधानमिति इदमिदानीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् अस्पष्टवचनस्त्वव्यक्तशब्द इति अत उत्तरमुच्यते सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्च विकारे दृष्टः यथा गोभिः श्रीणीत मत्सरम् इति श्रुतिश्च तद्धेदं तर्ह्यव्याकृतमासीत् इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति।।