ब्रह्मसूत्र

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।।1.4.23।।

प्रकृत्यधिकरणम्।।1.4.23।।

यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तम् ब्रह्म च जन्माद्यस्य यतः इति लक्षितम् तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति। तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति कस्मात् ईक्षापूर्वककर्तृत्वश्रवणात् ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते स ईक्षांचक्रे स प्राणमसृजत इत्यादिश्रुतिभ्यः ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम्। ईश्वरत्वप्रसिद्धेश्च ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्। कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते कारणेनापि तस्य तादृशेनैव भवितव्यम् कार्यकारणयोः सारूप्यदर्शनात् ब्रह्म चानेवंलक्षणमवगम्यते निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादिश्रुतिभ्यः पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते

ब्रूमः प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् निमित्तकारणं च न केवलं निमित्तकारणमेव कस्मात् प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येते। प्रतिज्ञा तावत् उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इति तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवति उपादानकारणाव्यतिरेकात्कार्यस्य निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्। दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्युपादानकारणगोचर एवाम्नायते तथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् इति च। तथान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति प्रतिज्ञा यथा पृथिव्यामोषधयः संभवन्ति इति दृष्टान्तः। तथा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इति प्रतिज्ञा स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः इति दृष्टान्तः। एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ। यत इतीयमपि पञ्चमी यतो वा इमानि भूतानि जायन्ते इत्यत्र जनिकर्तुः प्रकृतिः इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या। निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृ़नपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति प्रागुत्पत्तेः एकमेवाद्वितीयम् इत्यवधारणात् अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधांदेवोदितो वेदितव्यः अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्। तस्मादधिष्ठात्रन्तराभावादात्मनः
कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम्।।

कुतश्चात्मनः कर्तृत्वप्रकृतित्वे