ब्रह्मसूत्र

योनिश्च हि गीयते।।1.4.27।।

।।1.4.27।।

इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु कर्तारमीशं पुरुषं ब्रह्मयोनिम् इति यद्भूतयोनिं परिपश्यन्ति धीराः इति च। योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके पृथिवी योनिरोषधिवनस्पतीनाम् इति। स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्। क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः योनिष्ट इन्द्र निषदे अकारि इति। वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते यथोर्णनाभिः सृजते गृह्णते च इत्येवंजातीयकात्। तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्। यत्पुनरिदमुक्तम् ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् नोपादानेष्वित्यादि तत्प्रत्युच्यते न लोकवदिह भवितव्यम् न ह्ययमनुमानगम्योऽर्थः शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम। पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः।।