ब्रह्मसूत्र

Introduction for Chapter 2, Quarter 2


।।ब्रह्मसूत्रभाष्यम्।।

।।द्वितीयोऽध्यायः।।
।।द्वितीयः पादः।।

यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तम् न तर्कशास्त्रवत्केवलाभिर्युक्तिभिः कंचित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि सांख्यादिदर्शनानि निराकरणीयानीति तदर्थः परः पादः प्रवर्तते। वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम् तद्ध्यभ्यर्हितं परपक्षप्रत्याख्यानादिति। ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम् किं परपक्षनिराकरणेन परविद्वेषकारणेन बाढमेवम् तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मन्दमतीनाम् एतान्यपि सम्यग्दर्शनायोपादेयानि इत्यपेक्षा तथा युक्तिगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु इत्यतस्तदसारतोपपादनाय प्रयत्यते। ननु ईक्षतेर्नाशब्दम् कामाच्च नानुमानापेक्षा एतेन सर्वे व्याख्याता व्याख्याताः इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृतः किं पुनः कृतकरणेनेति। तदुच्यते सांख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते तेषां यद्व्याख्यानं तद्व्याख्यानाभासम् न सम्यग्व्याख्यानम् इत्येतावत्पूर्वं कृतम् इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः।।