ब्रह्मसूत्र

।। द्वितीयोऽध्यायः ।।
।। प्रथमः पादः ।।

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। 2.1.1 ।।

स्मृत्यधिकरणम्।।2.1.1।।

यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति तदयुक्तम् कुतः स्मृत्यनवकाशदोषप्रसङ्गात् स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः ता एवं सत्यनवकाशाः प्रसज्येरन्। तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते। मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् ईदृशश्चाचारः इत्थं वेदाध्ययनम् इत्थं समावर्तनम् इत्थं सहधर्मचारिणीसंयोग इति तथा पुरुषार्थांश्चतुर्वर्णाश्रमधर्मान्नानाविधान्विदधति। नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्ति। मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः। यदि तत्राप्यनवकाशाः स्युः आनर्थक्यमेवासां प्रसज्येत। तरमात्तदविरोधेन वेदान्ता व्याख्यातव्याः। कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् अस्मत्कृते च व्याख्याने न विश्वस्युः बहुमानात्स्मृतीनां प्रणेतृषु कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते श्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् इति तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् तर्कावष्टम्भेन च तेऽर्थं प्रतिष्ठापयन्ति तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः।।

तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गात् इति। यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् ता उदाहरिष्यामः यत्तत्सूक्ष्ममविज्ञेयम् इति परं ब्रह्म प्रकृत्य स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते इति चोक्त्वा तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इत्याह तथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयते इत्याह अतश्च संक्षेपमिमं श्रृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः इति पुराणे भगवद्गीतासु च अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इति परमात्मानमेव च प्रकृत्यापस्तम्बः पठति तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः इति। एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं प्रवक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम् अनपेक्ष्या इतराः तदुक्तं प्रमाणलक्षणे विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् इति। न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुम् निमित्ताभावात् शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् न सिद्धेरपि सापेक्षत्वात् धर्मानुष्ठानापेक्षा हि सिद्धिः स च धर्मश्चोदनालक्षणः ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न
पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् कपिलमिति श्रुतिसामान्यमात्रत्वात् अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्। भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः यद्वै किंच मनुरवदत्तद्भेषजम् इति मनुना च सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते आत्मभेदाभ्युपगमात्। महाभारतेऽपि च बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु इति विचार्य बहवः पुरुषा राजन्सांख्ययोगविचारिणाम् इति परपक्षमुपन्यस्य तद्व्युदासेन बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् इत्युपक्रम्य ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्।। विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति भूतेषु स्वैरचारी यथासुखम् इति सर्वात्मतैव निर्धारिता। श्रुतिश्च सर्वात्मतायां भवति यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः इत्येवंविधा। अतश्च सिद्धमात्मभेदकल्पनयापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचनविरुद्धत्वं च न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति। वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् रवेरिव रूपविषये पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः। तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशदोषप्रसङ्गो न दोषः।।

कुतश्च स्मृत्यनवकाशदोषप्रसङ्गो न दोषः