ब्रह्मसूत्र

एतेन योगः प्रत्युक्तः।।2.1.3।।

योगप्रत्युक्त्यधिकरणम्।।2.1.3।।

एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम् किमर्थं पुनरतिदिश्यते अस्ति ह्यत्राभ्यधिकाशङ्का सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति त्रिरुन्नतं स्थाप्य समं शरीरम् इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् इति विद्यामेतां योगविधिं च कृत्स्नम् इति चैवमादीनि योगशास्त्रेऽपि अथ तद्दर्शनाभ्युपायो योगः इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति इयमप्यधिका शङ्कातिदेशेन निवर्त्यते अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्। सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ शिष्टैश्च परिगृहीतौ लिङ्गेन च श्रौतेनोपबृंहितौ तत्कारणं
सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः इति निराकरणं तु न सांख्यस्मृतिज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इति द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः। यत्तु दर्शनमुक्तम् तत्कारणं सांख्ययोगाभिपन्नम् इति वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्। येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् तद्यथा असङ्गो ह्ययं पुरुषः इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते तथा च यौगैरपि अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते। एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् उपकुर्वन्तु नाम तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति नावेदविन्मनुते तं बृहन्तम् तं त्वौपनिषदं पुरुषं पृच्छामि इत्येवमादिश्रुतिभ्यः।।