ब्रह्मसूत्र

न विलक्षणत्वादस्य तथात्वं च शब्दात्।।2.1.4।।

नविलक्षणत्वाधिकरणम्।।2.1.4।।

ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः तर्कनिमित्त इदानीमाक्षेपः परिह्रियते। कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः परिनिष्पन्नरूपं तु ब्रह्मावगम्यते परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत दृष्टसाधर्म्येण चादृष्टमर्थं समर्पयन्ती युक्तिरनुभवस्य संनिकृष्यते विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्थाभिधानात् अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते श्रुतिरपि श्रोतव्यो मन्तव्यः इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते न विलक्षणत्वादस्य इति।।

यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति तन्नोपपद्यते कस्मात् विलक्षणत्वादस्य विकारस्य प्रकृत्याः इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः मृदैव तु मृदन्विता विकाराः प्रक्रियन्ते सुवर्णेन च सुवर्णान्विताः तथेदमपि जगदचेतनं सुखदुखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति न विलक्षणस्य ब्रह्मणः। ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् अशुद्धं हीदं जगत् सुखदुःखमोहात्मकतया प्रतीयते प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च अचेतनं चेदं जगत् चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् न हि साम्ये सत्युपकार्योपकारकभावो भवति न हि प्रदीपौ परस्परस्योपकुरुतः। ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति न स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते तस्मादचेतनं कार्यकारणम्। न च काष्ठलोष्टादीनां चेतनत्वे किंचित्प्रमाणमस्ति प्रसिद्धश्चायं चेतनाचेतनविभागो लोके। तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम्। योऽपि कश्चिदाचक्षीत श्रुत्या जगतश्चेतनप्रकृतिकताम् तद्बलेनैव समस्तं जगच्चेतनमवगमिष्यामि प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति एवमिहापि भविष्यति प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति तेनापि
कथंचिच्चेतनत्वाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते। न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह तथात्वं च शब्दादिति अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत तच्च शब्देनैव विरुध्यते यतः शब्दादपि तथात्वमवगम्यते तथात्वमिति प्रकृतिविलक्षणत्वं कथयति शब्द एव विज्ञानं चाविज्ञानं च इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति।।

ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते यथा मृदब्रवीत् आपोऽब्रुवन् इति तत्तेज ऐक्षत ता आप ऐक्षन्त इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः इन्द्रियविषया अपि ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः इति ते ह वाचमूचुस्त्वं न उद्गायेति इत्येवमाद्येन्द्रियविषयेति। अत उत्तरं पठति