ब्रह्मसूत्र

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति।।2.1.34।।

वैषम्यनैर्घृण्याधिकरणम्।।2.1.34।।

पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय। नेश्वरो जगतः कारणमुपपद्यते कुतः वैषम्यनैर्घृण्यप्रसङ्गात् कांश्चिदत्यन्तसुखभाजः करोति देवादीन् कांश्चिदत्यन्तदुःखभाजः पश्वादीन् कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् इत्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते

ब्रूमः वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते कस्मात् सापेक्षत्वात्। यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च न तु निरपेक्षस्य निर्मातृत्वमस्ति सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते किमपेक्षत इति चेत् धर्माधर्मावपेक्षत इति वदामः अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा
सृष्टिरिति नायमीश्वरस्यापराधः ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति। कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति तथा हि दर्शयति श्रुतिः एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते इति पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन इति च स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् इत्येवंजातीयका।।