ब्रह्मसूत्र

उपपद्यते चाप्युपलभ्यते च।।2.1.36।।

।।2.1.36।।

उपपद्यते च संसारस्यानादित्वम् आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् न चेश्वरो वैषम्यहेतुरित्युक्तम् न चाविद्या केवला वैषम्यस्य कारणम् एकरूपत्वात् रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् न च कर्म अन्तरेण शरीरं संभवति न च शरीरमन्तरेण कर्म संभवति इतीतरेतराश्रयत्वप्रसङ्गः अनादित्वे तु बीजङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति। उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः। श्रुतौ तावत् अनेन जीवेनात्मना इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत न च धारयिष्यतीत्यतोऽभिलप्येत अनागताद्धि संबन्धादतीतः संबन्धो बलीयान्भवति अभिनिष्पन्नत्वात् सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति। स्मृतावप्यनादित्वं संसारस्योपलभ्यते न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा इति पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम्।।