ब्रह्मसूत्र

Introduction for Chapter 2, Quarter 3


।।ब्रह्मसूत्रभाष्यम्।।

।।द्वितीयोऽध्यायः।।
।।तृतीयः पादः।।

वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते केचिदाकाशस्योत्पत्तिमामनन्ति केचिन्न तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न एवं जीवस्य प्राणानां च एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितम् तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येत इत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव। तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते